|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.256. अध्यायः 256
Mahabharata - Adi Parva - Chapter Topics
प्रज्वलदग्निदर्शनेन जरितायाः स्वपुत्रैः संवादः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-256-0x(1339)(11126)
ततः प्रज्वलिते वह्नौ शार्ङ्गकास्ते सुदुःखिताः।
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम्॥ 1-256-1(11127)
निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी।
जरिता शोकदुःखार्ता विललाप सुदुःखिता॥ 1-256-2(11128)
जरितोवाच। 1-256-3x(1340)
अयमग्निर्दहन्कक्षमित आयाति भीषणः।
जगत्संदीपयन्भीमो मम दुःखविवर्धनः॥ 1-256-3(11129)
इमे च मां कर्षयन्ति शिशवो मन्दचेतसः।
अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणाः॥ 1-256-4(11130)
त्रासयंश्चायमायाति लेलिहानो महीरुहान्।
अजातपक्षाश्च सुता न शक्ताः सरणे मम॥ 1-256-5(11131)
आदाय च न शक्नोमि पुत्रांस्तरितुमात्मना।
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे॥ 1-256-6(11132)
कं तु जह्यामहं पुत्रं कमादाय व्रजाम्यहम्।
किंनु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम्॥ 1-256-7(11133)
चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन।
छादयिष्यामि वो गात्रैः करिष्ये मरणं सह॥ 1-256-8(11134)
जरितारौ कुलं ह्येतज्ज्येष्ठत्वेन प्रतिष्ठितम्।
सारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः॥ 1-256-9(11135)
स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदां वरः।
इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा॥ 1-256-10(11136)
कमुपादाय शक्येयं गन्तुं कष्टाऽऽपदुत्तमा।
किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला।
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात्॥ 1-256-11(11137)
वैशम्पायन उवाच। 1-256-12x(1341)
एवं ब्रुवाणां शार्ङ्गास्ते प्रत्यूचुरथ मातरम्।
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट्॥ 1-256-12(11138)
अस्मास्विह विनष्टेषु भवितारः सुतास्तव।
त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः॥ 1-256-13(11139)
अन्ववेक्ष्यैतदुभयं क्षेमं स्याद्यत्कुलस्य नः।
तद्वै कर्तुं परः कालो मातरेष भवेत्तव॥ 1-256-14(11140)
मा त्वं सर्वविनाशाय स्नेहं कार्षीः सुतेषु नः।
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः॥ 1-256-15(11141)
जरितोवाच। 1-256-16x(1342)
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः।
तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम्॥ 1-256-16(11142)
ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः।
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः॥ 1-256-17(11143)
तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसुशंचयम्।
रोचतामेष वो वादो मोक्षार्थं च हुताशनात्॥ 1-256-18(11144)
शार्ङ्गका ऊचुः। 1-256-19x(1343)
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत्।
पश्यमाना भयमिदं प्रवेष्टुं नात्र शक्नुमः॥ 1-256-19(11145)
कथमग्निर्न नो धक्ष्येत्कथमाखुर्न नाशयेत्।
कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः॥ 1-256-20(11146)
बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम्।
अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम्॥ 1-256-21(11147)
गर्हितं मरणं नः स्यादाखुना भक्षिते बिले।
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात्॥ 1-256-22(11148)
`अग्निदाहे तु नियतं ब्रह्मलोके ध्रुवा गतिः॥' ॥ 1-256-23(11149)
इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः॥ 256 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-256-15 नोऽस्माकं सर्वविनाशाय सर्वेषां विनाशाय सुतेषु स्नेहं माकार्षीरिति संबन्धः॥ 1-256-18 विहन्तुं दूरीकर्तुंम्। वादो वचनम्॥ 1-256-19 क्रव्यादाखुर्मांसाद उन्दुरुः। पश्यमानाः पश्यन्तः॥ 1-256-20 मोघो निष्फलाऽपत्योत्पत्तिः। ध्रियेत जीवेत॥ 1-256-22 शिष्टादिष्टः शिष्टैरादिष्टः॥ षट्पञ्चाशदधिकद्विशततमोऽध्यायः॥ 256 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|